Wednesday, June 25, 2014

सा विद्या या विमुक्तये


तत्कर्म यन्न बन्धाय सा विद्या या विमुक्तये।
आयासायापरं कर्म विद्यान्या शिल्पनैपुणम्॥


--श्रीविष्णुपुराण १-१९-४१



कर्म वही है जो बन्धनका कारण न हो और विद्या भी वही है जो मुक्तिकी साधिका हो। इसके अतिरिक्त और कर्म तो परिश्रमरुप तथा अन्य विद्याएँ कला-कौशलमात्र ही हैं॥

Monday, June 23, 2014

संन्यासी


ज्ञेयः स नित्यसंन्यासी यो न द्वेष्टि न काङ्क्षति।
निर्द्वन्द्वो हि महाबाहो सुखं बन्धात्प्रमुच्यते।।


अनाश्रितः कर्मफलं कार्यं कर्म करोति यः।
स संन्यासी च योगी च न निरग्निर्न चाक्रियः।।

Saturday, June 21, 2014

उपनिषद्


ईश-केन-कठ-प्रश्न-मुण्ड-माण्डूक्य-तित्तिरि।
एतरेयं    च    छान्दोग्यं   बृहदारण्यकं   तथा॥


१. ईशावास्योपनिषत्
२. केनोपनिषत्
३. कठोपनिषत्
४. प्रश्नोपतिषत्
५. मुण्डकोपनिषत्
६. माण्डूक्योपनिषत्
७. तैत्तिरीयोपनिषत्
८. बृहदारण्यकोपनिषत्
९. छान्दोग्योपनिषत्
१०. ऐतरेयोपनिषत्

रूपकाः


नाटकं   सप्रकरणं   भाणः  प्रहसनं  डिमः।
व्यायोगसमवकारौ वीथ्यङ्केहामृगा दश॥


१. नाटक      २. प्रकरण       ३. भाण     ४. प्रहसन    ५. डिम
६. व्यायोग   ७. समवकार    ८. वीथि    ९. अङ्क     १०. इहामृग

Friday, June 20, 2014

किमर्थं कर्म करणीयम् ।


कायेन     मनसा     बुद्ध्या     केवलैरिन्द्रियैरपि ।
योगिनः कर्म कुर्वन्ति सङ्गं त्यक्त्वाऽऽत्मशुद्धये ॥
– श्रीमद्भगवद्गीता ५.११



  

cropped-sunrise-on-the-ganges-greg-holden1.jpg



-o-O-o-

सङ्गं त्यक्त्वा करोति यः


ब्रह्मण्याधाय कर्माणि सङ्गं त्यक्त्वा करोति यः।
लिप्यते     न    स    पापेन     पद्मपत्रमिवाम्भसा ॥
-- श्रीमद्भगवद्गीता ५.१०



 

Lotus


 

-o-O-o-

Thursday, June 19, 2014

लकाराः धातुगणाः च


भ्वाद्यदादी   जुहोत्यादिर्दिवादिः    स्वादिरेव. च।
तुदादिश्च       रुधादिश्च       तनुक्र्यादिचुरादयः॥
एते  दश  गणाः  प्रोक्ता मुनिभिस्तत्त्वदर्शिभिः।
लड्  वर्तमाने  लेड्   वेदे भूते लुङ् लङ् लिटस्तथा॥
विध्याशिषोर्लिङौ लोट् च लुट् लृटौ च भविष्यति।
लृङ्   क्रियाया अनिष्पत्तौ लकारा दश कीर्तिताः॥


धातुगणाः
१. भ्वादिः          २. अदादिः          ३. जुहोत्यादिः          ४. दिवादिः          ५. स्वादिः
६. तुदादिः          ७. रुधादिः          ८. तनादिः                ९. क्र्यादिः          १०. चुरादिः

 

-o-O-o-

Wednesday, June 18, 2014

मित्रस्य जन्मदिवसः


ह्यः अहं मम मित्रस्य गृहे आसम्। तस्य जन्मदिनम् आसीत्। तत्र अन्यानि मित्राणि अपि आसन्। वयं सर्वेऽपि मधुरं मिष्ठानं अखादाम। पश्चात् क्रीडाङ्गणे गत्वा अहं मम मित्रैः सह एकं खेलं अक्रीडम्। रात्रौ श्रान्तः अभवम् अतः गृहम् आगम्य शयनं अकरवम्।

-o-O-o-

भाषाभ्यासः - कदा कृतम्


अहं ह्यः पाठम् अपठम्।
अहं ह्यः मध्याह्ने पुष्पम् आनयम्।
अहं ह्यः अपराह्णे तम् आह्वयम्।
त्वं ह्यः सायं फलं अखादः किम्।
सः ह्यः रात्रौ आम्रफलम् अक्रीणात्।
अहं परोह्यः प्रातः संस्कृतम् अपठम्।
अहं परोह्यः प्रातः सप्तवादने अपूजयम्।
अहं दिनद्वात् पूर्वम् आगच्छम्।
आवां त्रिभ्यः दिनेभ्यः पूर्वं ज्ञानम् अलभावहि।
चतुर्भ्यः दिनेभ्यः पूर्वं शीतम् अल्पम् आसीत्।
अहं पञ्चभ्यः दिनेभ्यः पूर्वं काशीम् अगच्छम्।
मया षड्भ्यः दिनेभ्यः पूर्वं श्लोकः पठितः।
मया सप्ताहात् पूर्वं पुराणं पठितम्।
मया मासात् पूर्वं गीता पठिता।
यूयं वर्षात् पूर्वं माम् अमिलत।
अहं गतसप्ताहे चन्द्रगृहणम् अपश्यम्।
सः गतमासे वृक्षात् अपतत्।
अहं गतवर्षे हरिद्वारे अवसम्।
गतसप्ताहे अस्मिन् समये अहं पायसम् अपचम्।
युवां गतसप्ताहे प्रातः पञ्चवादने कुत्र आस्तम्।
वयं गतसोमवासरे दिवा दशवादने अत्रैव आस्म।

-o-O-o-

असतो मा सद्गमय

असतो मा सद्गमय।
तमसो मा ज्योतिर्गमय।
मृत्योर्माऽमृतं गमय॥


      - बृहदारण्यकोपनिषत् १-३-२८


diwali-deep-night-picture-o-O-o-


धर्ममाचरेत्


अजरामरवत् प्राज्ञ: विद्यामर्थं च साधयेत् ।
गृहीत इव केशेषु मृत्युना धर्ममाचरेत् ॥



प्राज्ञ (बुद्धिमान्) को ज्ञान और अर्थ इस प्रकार प्राप्त करना चाहिये जैसे कभी भी जरा (वृद्धावस्था) और मृत्यु नही होगी और धर्माचरण इस प्रकार करना चाहिये जैसे कि मृत्यु केश पकड़कर ले जा रही है।

-o-O-o-

आलस्यं न कुर्याम्

आलस्यं हि मनुष्याणां शरीरस्थो महान् रिपुः॥


-o-O-o-


 

Auto Draft

जननी जन्मभूमिश्च

अपि स्वर्णमयि लङ्का न मे लक्ष्मण रोचते।
जननी जन्मभूमिश्च स्वर्गादपि गरीयसी॥


 

5

-o-O-o-

अत्र तत्र च सर्वत्र

अत्र तत्र च सर्वत्र वर्तते परमेश्वरः ।
अन्यत्र चापि तत्स्थानं कुत्र स्याद् यत्र नास्ति सः ॥



Tuesday, June 17, 2014

नमोनमः

The Natraj


 

वागर्थाविव सम्प्रुक्तौ वागर्थप्रतिपत्तये ।
जगतः पितरौ वन्दे पार्वतीपरमेश्वरौ ॥


-o-O-o-